|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.279. अध्यायः 279
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति धर्माचरणस्य श्रेयस्साधनत्वप्रतिपादनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-279-0x(6351)(76468)
कथं भवति पापात्मा कथं धर्मं करोति वा।
केन निर्वेदमादत्ते मोक्षं वा केन गच्छति॥ 12-279-1(76469)
भीष्म उवाच। 12-279-2x(6352)
विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि।
शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः॥ 12-279-2(76470)
विज्ञानार्थं हि पञ्चानामिच्छापूर्वं प्रवर्तते।
प्राप्यतां वर्तते कामो द्वेषो वा भरतर्षभ॥ 12-279-3(76471)
ततस्तदर्थं यतते कर्म चारभते महत्।
इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति॥ 12-279-4(76472)
ततो रागः प्रभवति द्वेषश्च तदनन्तरम्।
ततो लोभः प्रभवति मोहश्च तदनन्तरम्॥ 12-279-5(76473)
लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च।
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च॥ 12-279-6(76474)
व्याजेन चरते धर्ममर्थं व्याजेन रोचते।
व्याजेन सिद्ध्यमानेषु धर्मेषु कुरुनन्दन॥ 12-279-7(76475)
तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति।
सुहृद्भिर्वार्यमाणोऽपि पण़्डितैश्चापि भारत॥ 12-279-8(76476)
उत्तरं न्यायसंबद्धं ब्रवीति विधिचोदितम्।
अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः॥ 12-279-9(76477)
पापं चिन्तयते कर्म प्रब्रवीति करोति च।
तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः॥ 12-279-10(76478)
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः।
स नेह सुखमाप्नोति कुत एव परत्र वै॥ 12-279-11(76479)
एवं भवति पापात्मा धर्मात्मानं तु मे शृणु।
यथा कुशलधर्मा स कुशलं प्रतिपद्यते॥ 12-279-12(76480)
कुशलेनैव धर्मेण गतिमिष्टां प्रपद्यते।
य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति॥ 12-279-13(76481)
कुशलस्तु सुखार्थाय साधूंश्चाप्युपसेवते।
तस्य साधुसमाचारादभ्यासाच्चैव वर्धते॥ 12-279-14(76482)
प्राज्ञो धर्मे च रमते धर्मं चैवोपजीवति।
सोऽथ धर्मादवाप्तेषु धनेषु कुरुनन्दन॥ 12-279-15(76483)
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै।
धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम्॥ 12-279-16(76484)
स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति।
शब्दे स्पर्शे रसे रूपे तथा गन्धे च भारत॥ 12-279-17(76485)
प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः।
स तु धर्मफलं लब्ध्वा न तृष्यति युधिष्ठिर॥ 12-279-18(76486)
धर्मे स्थितानां कौन्तेय सर्वभोगक्रियासु च।
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा।
प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति॥ 12-279-19(76487)
शब्दे स्पर्शे तथा रूपे न च भावयते मनः।
विमुच्यते तदा कामान्न च धर्मं विमुञ्चति॥ 12-279-20(76488)
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्।
ततो मोक्षाय यतते नानुपायादुपायतः॥ 12-279-21(76489)
शनैर्निर्वेदमादत्ते पापं कर्म जहाति च।
धर्मात्मा चैव भवति मोक्षं च लभते परम्॥ 12-279-22(76490)
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि।
पापं धर्मस्तथा मोक्षो निर्वेदश्चैव भारत॥ 12-279-23(76491)
तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर।
धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती॥ ॥ 12-279-24(76492)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनाशीत्यधिकद्विशततमोऽध्यायः॥ 279॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-279-7 व्याजेन कपटेन। अर्थमर्थजातम्॥ 12-279-9 न्यायसंबद्धमाहारे व्यवहारे च त्यक्तलज्जः सुखी भवेदित्यादि। त्रिविधः कायिको वाचिको मानसश्च॥ 12-279-10 पापं परानिष्टम्॥ 12-279-12 कुशलं कल्याणं परहितमित्यर्थः॥ 12-279-19 निर्वेदं वैराग्यम्॥ 12-279-20 भावयते चिन्तावशं करोति। विरज्यति तदा कामे इति ड. थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|